श्री महालक्ष्मी स्तोत्रम्

ॐ श्रीरूपायै च विद्महे । शुभदायै च धीमहि ।
तन्नो लक्ष्मीः प्रचोदयात् ॥

श्रींबीजपूजिते देवि हरिवक्षस्थलालये ।
सर्वसौमङ्गलाधात्रि महालक्ष्मि नमोस्तु ते ॥ १॥

विद्यालक्ष्मि सुधासारे ज्ञानलक्ष्मि वसुप्रदे ।
भद्रे लक्ष्मि नमस्तुभ्यं मोक्षलक्ष्मि प्रसीद मे ॥ २॥

सर्वलक्षणलक्षण्ये सौमङ्गल्यसुविग्रहे ।
स्वस्तिवाक् श्रीः शुचीरूपे शान्तिरूपे सुखास्पदे ॥ ३॥

अष्टैश्वर्यप्रदे लक्ष्मि अष्टलक्ष्मि सुपूजिते ।
नित्यैश्वर्यवरे लक्ष्मि नित्यानन्दस्वरूपिणि ॥ ४॥

धनधान्यसुसन्तानधैर्यसौन्दर्यरूपिणि ।
तनुरारोग्यसौभाग्यसानन्दसिद्धिदायिनि ॥ ५॥

उषोरागजये लक्ष्मि उषोगानप्रसादिनि ।
सन्ध्यासुरागसङ्गीते सन्ध्यादीपप्रकाशिनि ॥ ६॥

गीतवाद्यप्रिये लक्ष्मि गतकर्मजसत्पदे ।
ओङ्कारसदने मातः कुरुदृष्टिप्रसादनम् ॥ ७॥

नादोङ्कारस्वरूपे श्रीः सुनादस्वरसालये ।
नादसुस्वरमाधुर्ये नादान्तःप्रशमालये ॥ ८॥

मनःस्फूर्तिकरे लक्ष्मि मनःसारसवासिनि ।
मनःपुष्पार्चिते मातर्मनोमयमदम्बिके ॥ ९॥

आदिलक्ष्मि मदम्ब त्वं रक्ष मां कुरु त्वत्कृपाम् ।
आधिव्याध्यार्तिपङ्काद्विमोचनं कुरु शाश्वतम् ॥ १०॥

पङ्केरुहविशालाक्षि कटाक्षेण विमोचय ।
सदा मां पातु मालक्ष्मि सदा तिष्ठ मया सह ॥ ११॥

जन्ममृत्युजरातापजालाद्विमोचनं कुरु ।
कुरु मे त्वयि लीनं श्रीः कुरु जन्मनिवारणम् ॥ १२॥

इहसौख्ये सुमाङ्गल्ये परमोक्षप्रदायिनि ।
श्रीमन्नारायणानन्दे लक्ष्मि तुभ्यं नमो नमः ॥ १३॥

मङ्गलं श्रीमहालक्ष्म्यै शुभलक्ष्म्यै सुमङ्गलम् ।
मङ्गलं मङ्गलाङ्कायै मात्रे नित्यं सुमङ्गलम् ॥ १४॥

त्यागराजगुरुस्वामिशिष्यापुष्पाकृतस्तुतिः ।
महालक्ष्मीबहुप्रीता सुमाङ्गल्या शुभप्रदा ॥ १५॥

निचे दिए गए लिंक पर क्लिक कर श्री महालक्ष्मी स्तोत्रम् हिंदी मै PDF डाउनलोड करे

Visited 5,320 times, 4 visit(s) today